|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.176. अध्यायः 176
Mahabharata - Vana Parva - Chapter Topics
अर्जुनेन युधिष्ठिरंप्रति इन्द्रेण स्वस्मै सानुग्रहं कवचकिरीटादिदानकथनम् ॥ 1 ॥ तथा युधिष्ठिरेण दिव्यास्त्रप्रदर्शनचोदनायां श्वःप्रदर्शनप्रतिज्ञानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
अर्जुन उवाच। 3-176-0x(2324)(22730)
ततो मामिविश्वस्तं संरूढशरविक्षतम्।
देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ॥ 3-176-1(22731)
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत।
न त्वाऽभिभवितुं शक्तो मानुषो भुवि कश्चन ॥ 3-176-2(22732)
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः।
संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ॥ 3-176-3(22733)
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः।
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ॥ 3-176-4(22734)
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम्।
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ॥ 3-176-5(22735)
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च।
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ॥ 3-176-6(22736)
एवं संपूजितस्तत्रसुखमस्म्युषितो नृप।
इन्द्रस् भवने पुण्ये गन्धर्वशिशुभिः सह ॥ 3-176-7(22737)
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह।
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ॥ 3-176-8(22738)
एवमिन्द्रस्य भवने पञ्चवर्षाणि भारत।
उषितानि मया राजन्स्मरता द्यूतजं कलिम् ॥ 3-176-9(22739)
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम्।
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ॥ 3-176-10(22740)
युधिष्ठिर उवाच। 3-176-11x(2325)
दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत।
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ॥ 3-176-11(22741)
दिष्ट्या च भगवन्स्थाणुर्देव्या सह परंतपः।
साक्षाद्दृष्टः स्वयुद्धेन तोषितश् त्वयाऽनघ ॥ 3-176-12(22742)
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ।
दिष्ट्या वर्धामहे पार्थ दिष्ट्याऽसि पुनरागतः ॥ 3-176-13(22743)
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम्।
`पश्यामि भूमिं कौन्तेय त्वया मे प्रतिपादिताम्'।
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ॥ 3-176-14(22744)
इच्छामि तानि चास्त्राणि द्रष्टुं दिव्यानि भारत।
यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः ॥ 3-176-15(22745)
अर्जुन उवाच। 3-176-16x(2326)
सः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः।
निवातकवचा घोरा यैर्मया विनिपातिताः ॥ 3-176-16(22746)
वैशम्पायन उवाच। 3-176-17x(2327)
एवमागमनं तत्र कथयित्वा धनंजयः।
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ॥ 3-176-17(22747)
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-176-1 अतिविश्वस्तं अति अत्यन्तं विश्वस्तं शत्रून् जेष्यतीति विश्वासो यस्मिंस्तम्। संरूढा देहे निमग्नाः शरास्तैर्विक्षतम् ॥ 3-176-2 त्वा त्वाम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|